Bharatiyagnyanparamparayah Sanrakshane Sanskritpandulipinam Digital Sanrakshanam

Title: Bharatiyagnyanparamparayah Sanrakshane Sanskritpandulipinam Digital Sanrakshanam Download

Author’s : Dr. Devendra Singh Rajput

Date of Publication (ONLINE) :-18-06-2026
DOI :-10.71037/gyanvividha.v3i2.62
Online Publication Certificate No. :- GV/3262

cite this article:
Rajput Dr. Devendra Singh.Bharatiyagnyanparamparayah Sanrakshane Sanskritpandulipinam Digital Sanrakshanam”, Published in GYANVIVIDHA, ISSN: 3048-4537(O) & 3049-2327 (P), Volume-3 | Issue-2, April-June, 2026, Page No. :-414-422.

URL : https://journal.gyanvividha.com/wp-content/uploads/2026/09/Devendr-singhrajput-Gyanvividha-Vol-3-issue-2-Apr.-June2026-pp-414-422.pdf

Abstract : प्राचीनभारतीयविद्वत्त्वं जीवनपद्धतिः च विशुद्धरूपेण संस्कृतभाषायां प्रतिबिम्बयति। सा केवलं भाषा न अस्ति, अपि तु जीवनस्य सर्वेषु पक्षेषु व्याप्यमाना भारतीयज्ञानपद्धतेः एकं रूपं अस्ति। ग्रन्थेषु पाण्डुलिपिषु च निहितं सम्पूर्णं साहित्यं अतीव वैज्ञानिकदृष्टिकोणं वहति। प्राचीनभारते विज्ञान-प्रौद्योगिक्याः विविधाः शाखाः उपलभ्यन्ते स्म यथा आयुर्वेद (चिकित्सा), शिल्प (वास्तुकला), गणितं, खगोलशास्त्रं, वायुयानशास्त्रं, पारिस्थितिकीशास्त्रं च पर्यावरणं च, कृषिः इत्यादयः प्राचीनसंस्कृतसाहित्ये एतेषु विषयेषु सम्बद्धाः पाण्डुलिप्याः प्रचुररूपेण उपलभ्यन्ते ।

प्राचीनवैज्ञानिकस्य संस्कृतग्रन्थानां हस्तलिखित-पाण्डुलिपीनाम् संरक्षणं अत्यन्तं महत्वपूर्णम् । भारतदेशे बहुविधवस्तुषु (ताडपत्रम्, तिलपत्रम्, काष्ठपत्रम्, ताम्रपत्रम्, पत्थरलेखसमूहम्, कागदपत्राः, चमडापट्टिका इति) लिखितानाम् अभिलेखानाम् विशालः संग्रहः अस्ति। एतेषां पत्राणां यांत्रिक-क्षयः, जैविक-नाशः च प्रतिदिनं वर्धते। अतो डिजिटल् रूपेण प्रतिकृति निर्मातुम्, सु-संगृहीतस्य सूचकानां परिसूचना-निर्माणं च अवश्यम्। अत्र लेखे हस्तपाण्डुलिपि-वर्गीकरणम्, पारम्परिकरक्षणपद्धतयः, डिजिटल्-दृष्टिकोणः, गुणवत्तायाः मापदण्डाः, कार्यप्रणाली, भारतस्य सर्वाधिकाः उपक्रमाः च विवेच्यन्ते। उपसंहारे डिजिटल् संरक्षणेन न केवलं ऐतिहासिक-सम्मत-नैतिकता संरक्षते, किन्तु इत्यर्थस्य अनुसन्धानसुलभता अपि वर्धते। प्रस्तावित शोधपत्रे प्रौद्योगिक्याः माध्यमेन पाण्डुलिपिनां संरक्षणार्थं क्रियमाणानां प्रयत्नानाम् समीक्षा, संरक्षणार्थं उपायानां व्याख्यानं च अस्ति। पाण्डुलिपि-संरक्षणस्य पारम्परिक-प्रविधीनां  वर्तमान-प्रौद्योगिकी-युक्तानाम् उपायानाञ्च विवरणं कुर्वन् वर्तमान-समये प्रगत-प्रौद्योगिक्या माध्यमेन संस्कृत-पाण्डुलिपीनां संरक्षणस्य विविधाः संस्था-सम्बद्धाः संस्थाऽसम्बद्धाः प्रयासाः अत्र उद्घाटिताः सन्ति। पाण्डुलिपिसंरक्षणस्य पारम्परिक उपायै सह वर्तमान प्रौद्योगिकी सम्मत उपायानां डिजिटल्-रणनीतिभिः विवेचितम्। अस्मिन् विषये लेखकेन विकसितायाः ऑनलाइन-पाण्डुलिपि-अन्वेषण-तन्त्रस्य (OMACS -https://sanskrit.jnu.ac.in/omacs/ index.jsp) अपि सर्वेषां परिचयः करणीयः अस्ति । इदं यन्त्रं विज्ञानेन प्रौद्योगिक्या च  सह सम्बद्धानां पाण्डुलिपीनां सूची अन्वेषणार्थं अवधारणा-आधारितं बहु-आयामी अन्वेषणयन्त्रम् अस्ति । इदं अत्याधुनिक-डिजिटल-मानविकी-प्रौद्योगिक्याः प्रयोगेण पाण्डुलिपीनां कृते ऑनलाइन-पुस्तकालयाः, डिजिटल-सङ्ग्रहालयाः, संरक्षण-प्रौद्योगिक्यश्च सूच्यन्ते । प्रस्तुतं शोधपत्रं भारतस्य ज्ञानविज्ञानस्य अद्वितीयपरम्परां ऐतिहासिकालेखानां च रूपेण प्राप्तानां पाण्डुलिपीनां वर्तमान-अत्याधुनिक-प्रौद्योगिकीनां सङ्गणक-प्रविधीनां च माध्यमेन संरक्षणस्य उपायानां प्रयोगे आधारितम् अस्ति ।

संस्कृतपाण्डुलिपीनां अध्ययनं भाषायाः विविधाः प्रवृत्तीः, प्राचीनलिपीः, भाषायाः विकासं, लिपिविज्ञानञ्च  अवगमने साहाय्यं भवति । पाण्डुलिपयः विदुषः ग्रन्थानां सम्पादने, अनुवादने, व्याख्याने च समर्थाः भावयन्ति, येन मूलार्थस्य सन्दर्भस्य च गहनतया अवगमनं शक्नोति ।

Keywords : पाण्डुलिपि, संस्कृतग्रन्थाः, डिजिटल्-रक्षणं, डिजिटाईजेशन, कैटलॉग्, संरक्षणनीति ।

Publication Details:

Journal : GYANVIVIDHA (ज्ञानविविधा)

ISSN : 3048-4537 (Online)

3049-2327 (Print)

Published In : Volume-3 | Issue-2, April-June, 2026

Page Number(s) : 414-422

Publisher Name :

 Mrs Anubha Chaudhary | https://journal.gyanvividha.com | E-ISSN 3048-4537 | P-ISSN 3049-2327

Loading Viewer…

Leave a Reply

Your email address will not be published. Required fields are marked *